कक्षा-11 संस्कृत अर्द्धवार्षिक परीक्षा का पेपर हल Class-11 Sanskrit Half Yearly Exam Question Paper Solution.

 कक्षा-11 संस्कृत अर्द्धवार्षिक परीक्षा का पेपर हल Class-11 Sanskrit Half Yearly Exam Question Paper Solution

यहाँ पर विद्यार्थियों की सुविधा के लिए कक्षा-11 संस्कृत अर्द्धवार्षिक परीक्षा 2022-2023 का पेपर हल (Class-11 Sanskrit Half Yearly Exam Question Paper Solution.) किया जा रहा है।

अर्द्धवार्षिक परीक्षा 2022-2023
विषय- संस्कृत
समय -3         घण्टा कक्षा-11         पूर्णांक - 80

नोट -  सर्वेषां प्रश्नानाम् उत्तरम् दीयताम्।

प्रश्नः -1अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -
पुरा वने एकस्मिन् आश्रमे बहवः शिष्याः विद्याध्ययनं कुर्वन्ति स्म। तेषु वरदराजः नाम एकः मन्दमतिः छात्रः आसीत्। सः यत् पठति तत् विस्मरति स्म। सहपाठिनः तस्य उपहासं कुर्वन्ति स्म। एकदा गुरुः तम् अकथयत्-  वरदराज ! अहं सम्यक् रुपेण अपश्यम् यत् त्वं पठितं पाठं किञ्चित् अपि न स्मरसि। अतः त्वं वृथा समयं मा यापय, किञ्चित् आन्यकार्यं कुरु। आत्मसम्मानेन वञ्चयितः सः अचिन्तयत् - नूनम् अहं मूर्खः अस्मि। मम भाग्ये विद्या नास्ति। खिन्नः भूत्वा सः इतस्ततः भ्रमित स्म। मार्गे सः एक कूपम् अपश्यत्। तत्र अनेकाः महिलाः जलेलन घटान् पूरयन्ति स्म। ताः महिलाः यस्यां भूमौ घटं स्थापयित्वा जलं पूरयन्ति स्म। तत्र एकः गर्तः अभवत्। एतत् दृष्ट्वा सः अचिन्तयत् - यदि मृत्तिकाघटेन भूमौ गर्तः अभवतः तर्हि पुनः पुनः अभ्यासेन मम बुद्धिः अपि कथं तीव्रा न भविष्यति।
   (क) एकपदेन उत्तरत - 
        (I) शिष्याः किं कुर्वन्ति स्म?
उत्तरम् - विद्याध्ययनम्।
        (ii) सहपाठिनः कस्य उपहासं कुर्वन्ति?
उत्तरम् - वरदराजस्य 
    (iii)  आत्मसम्मानेन वञ्चयितः कः अचिन्तयत्?
उत्तरम् - वरदराजः
    (iv) मार्गे सः काम् अपश्यत्?
उत्तरम् - कूपम्।

(ख) पूर्णवाक्येन उत्तरत - 
    (i) अनेकाः महिलाः किं कुर्वन्ति?
 उत्तरम् - अनेकाः महिलाः जलेन घटान् पूरयन्ति।
    (ii) मार्गे सः किम् अपश्यत्?
उत्तरम् - मार्गे सः एकं कूपम् अपश्यत्।

(ग)  निर्देशानुसारं उत्तरत - 
    (i) सहपाठिनः तस्य उपहासं कुर्वन्ति स्म। वाक्येऽस्मिन् क्रियापदं किम् ?
उत्तरम् - कुर्वन्ति स्म।
    (ii)  आत्मसम्मानेन वञ्चयितः सः अचिन्तयत् अत्र सः सर्वनामपदं कस्य संज्ञापदस्य स्थाने प्रयुक्तम् अस्ति?
उत्तरम्  - वरदराजः।
    (iii) महिलाः अस्य पदस्य विलोमपदं लिखत?
उत्तरम् - पुरुषाः।
    (iv) उपर्युक्त गद्यांशस्य समुचितं शीर्षकं लिखत?
उत्तरम्  - मूर्खः बालः।

प्रश्नः - 2.  माननीय- प्रधानमंत्रिणः राष्ट्रीयस्वच्छता-कार्यक्रमान्तर्गते ग्रामस्वच्छतायै सर्वेभ्यः निवेदितं ग्राम- सदस्य रामानुजस्य पत्रम् । तत्पत्रं मूञ्जूषायां प्रदत्तैः उचितपदैः पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत - 
मूञ्जूषाः - रामानुजः, निसर्गाय, जनाः, महती, करणीयः, सुविदितम्, नालिकाः, जायन्ते।

महोदय !
निवेद्यते यत् भारतीय-प्रधानमंत्रिणः राष्ट्रीयस्वच्छताकार्यक्रमान्तर्गते ग्रामस्वच्छतायै सर्वेभ्यः देसवासिभ्यः निवेदनं कृतं यत् सर्वैः ग्रामवासिभिः ग्रामस्वच्छतायै सहयोगः.................।अस्माकं ग्रामे जलस्य ...............।समुचिता व्यवस्था नास्ति। अस्मत्कारणात् सर्वत्र .................. दूषितैः जलैः परिपूर्णाः सन्तिः। दूषितैः जलैः जनाः कष्टम् अनुभवन्ति, नानाविधाः रोगाः .................। ग्रामे जलप्रबन्धस्य ................. आवश्यकता वर्तते। अतः सुविदितं यत् शीघ्रमेव मम ग्रामे जलप्रबन्धस्य समुचिता- व्यवस्था- करणाय कृपां कुर्वन्तु। येन ग्रामस्य वातावरणं स्वच्छं भवतु।
दिनांकः  16-08-2022 
भावत्कः 
................
ग्रामसदस्य भावनगरम्, टिहरी जनपदम्।
उत्तरम्  -
            महोदय !
            निवेद्यते यत् भारतीय-प्रधानमंत्रिणः राष्ट्रीयस्वच्छताकार्यक्रमान्तर्गते ग्रामस्वच्छतायै सर्वेभ्यः देसवासिभ्यः निवेदनं कृतं यत् सर्वैः ग्रामवासिभिः ग्रामस्वच्छतायै सहयोगः करणीयः ।अस्माकं ग्रामे जलस्य निसर्गाय। समुचिता व्यवस्था नास्ति। अस्मत्कारणात् सर्वत्र नालिकाः.. दूषितैः जलैः परिपूर्णाः सन्तिः। दूषितैः जलैः जनाः कष्टम् अनुभवन्ति, नानाविधाः रोगाः जायन्ते। ग्रामे जलप्रबन्धस्य महती आवश्यकता वर्तते। अतः सुविदितं यत् शीघ्रमेव मम ग्रामे जलप्रबन्धस्य समुचिता- व्यवस्था- करणाय कृपां कुर्वन्तु। येन ग्रामस्य वातावरणं स्वच्छं भवतु।
दिनांकः  16-08-2022 
भावत्कः 
रामानुजः
ग्रामसदस्य भावनगरम्, टिहरी जनपदम्।

प्रश्नः - 3.  मंजूषातः उचितपदानि चित्वा कथां पूरयत - 

मञ्जूषा - विपुलं, मेवाड़राज्ये, असफलः, भामाशाहः, रक्षायै, मन्त्री, सैनिकाः, धनाभावे।

पुरा ............. शक्तिमान नृपः प्रतापः आसीत्। तस्य नीतिमान् पूर्वमंत्री .......... आसीत्। राज्ञः श्रद्धावन्त  ........ तेन सह वने अवसन्। बुद्धिमान प्रतापः राज्यस्य ............ पुनःपुनः  प्रयत्नं अकरोत्, परं ............सेनाभावे च .......... जातः। तदा धनवान्.............. राज्यस्य रक्षायै ............ धनम् अयच्छत्। एतादृशाः गुणवन्तः जनाः धन्याः ये देशहिताय सर्वम् अर्पयन्ति।
उत्तरम्  -
पुरा मेवाड़राज्ये शक्तिमान नृपः प्रतापः आसीत्। तस्य नीतिमान् पूर्वमंत्री भामाशाहः आसीत्। राज्ञः श्रद्धावन्त सैनिकाः तेन सह वने अवसन्। बुद्धिमान प्रतापः राज्यस्य रक्षायै पुनःपुनः  प्रयत्नं अकरोत्, परं धनाभावे सेनाभावे च असफलः जातः। तदा धनवान् मन्त्री राज्यस्य रक्षायै विपुलं धनम् अयच्छत्। धन्या: एतादृशाः गुणवन्तः जनाः धन्याः ये देशहिताय सर्वम् अर्पयन्ति।

प्रश्नः - 4.  उत्तराखण्डप्रदेशः इति विषयमधिकृत्य निर्दिष्ट- शब्दसूची-सहाय्येन एकम् अनुच्छेदं लिखत - 

 मूञ्जूषाः - केदारनाथम्, हरिद्वारम्, नैनीतालम्, मोनालः, देहरादूनम्, कस्तूरीमृगः, गङ्गा, देवप्रयागः।

उत्तरम्  -
उत्तराखण्डः देवतीर्थस्थली अस्ति। अत्र केदारनाथम्, हरिद्वारम्, बद्रीनाथम्, गङ्गोत्री, यमनोत्री इत्यादयः प्रमुखानि तीर्थस्थलानि सन्ति। उत्तराखण्ड-प्रदेशस्य राजधानी देहरादूनम् अस्ति। उत्तराखण्ड-प्रदेशस्य राज्यपक्षी मोनालः, राज्यपशुः कस्तूरीमृगः च अस्ति। भारतदेस्य परमपवित्र-नदी गंङ्गा एव अस्ति। गङ्गायाः अलकनंदायाः च सङ्गमः देवप्रयागः अस्ति।

प्रश्नः - 5.  (क)  कः च एतयोः द्वयोः वर्णयोः उच्चारण-स्थानं लिखत - 

उत्तरम् -
                     कः = कण्ठः                च = तालुः

(ख)  वर्ण वियोजनं / वर्ण- संयोजनं  कुरुत - 

(अ)  गजाननः। 
उत्तरम् -  ग्+अ+ ज्+ आ+ न्+अ+ ः (विसर्गः)

(ब)  क्+अ+ म्+ अ+ ल्+ अ

उत्तरम् -  कमल

प्रश्नः - 6.  रेखांकितपदेषु सन्धिः/ सन्धिविच्छेदः कृत्वा लिखत - 

(क) युगान्ते        -          उत्तरम् -    युग+ अन्ते
(ख) कस्यापि       -         उत्तरम् -    कस्य+ अपि
(ग) च+इन्दुरश्मयः    -    उत्तरम् - चेन्दुरश्मयः


प्रश्नः -7.  अधोलिखितवाक्येषु समुचितविभक्तिपदं योजयत -

        (क)  गणेशस्य ............. पार्वती आसीत्।  (माता, मात्रा, मातरि)
        (ख)........... दशरथस्य चत्वारः पुत्राः आसन्। (राज्ञा, राज्ञे, राज्ञः)
        (ग) वृक्षाणां सुरक्षा अस्माकं परमं कर्त्तव्यम्। (अस्मै,अस्माकं, अस्मिन्)
        (घ) त्रयः बालिकाः गच्छन्ति। (त्रयः, त्रीणि, तिस्रः)
उत्तरम् - 
        (क)  गणेशस्य माता पार्वती आसीत्।  
        (ख) राज्ञः दशरथस्य चत्वारः पुत्राः आसन्। (राज्ञा, राज्ञे, राज्ञः)
        (ग) वृक्षाणां सुरक्षा अस्माकं परमं कर्त्तव्यम्।
        (घ) तिस्रः  बालिकाः गच्छन्ति।

प्रश्नः - 8. अधोलिखितपदेषु उचितधातुरुपैः वाक्यानि पूरयत - 

    (क) श्रद्धावान् ज्ञानं ...........। (लभ्+लट्)
    (ख) आयुष्मान्.................। (भू+ लोट्) 
    (ग) बालकः अध्ययनं.........। (कृ+लट्)

उत्तरम् - 
        (क) श्रद्धावान् ज्ञानं लभते। 
        (ख) आयुष्मान् भव। 
        (ग) बालकः अध्ययनं करोति। 

प्रश्नः - 9अधोलिखितकोष्ठकगतपदेषु समुचितम् उपपदविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत - 

        (क) गङ्गा...............प्रभवित। (हिमालय) 
        (ख) ............ तापसः प्रतीयते। (जटा)
        (ग) ................... हरिं भजते। (मोक्ष)

उत्तरम् - 
        (क) गङ्गा हिमालयात् प्रभवित।  
        (ख) जटाभिः तापसः प्रतीयते। 
        (ग) मोक्षाय हरिं भजते। 

प्रश्नः - 10. अधोलिखितपदेषु वाच्यानुसारं समुचितपदैः रिक्तस्थानानि पूरयत - 

        (क).......... फलं खादति। (राम)
        (ख) तेन गृहं ..............। (गम्)
        (ग)  अध्यापकेन छात्राः ..........। (पठ्)

उत्तरम् - 
        (क) रामः फलं खादति।
        (ख) तेन गृहं गम्यते। 
        (ग)  अध्यापकेन छात्राः पाठ्यते। 

प्रश्नः -11.  अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत -
एकतमस्तु जरच्छबरस्तस्मिन्नेव तरुतले मुहूर्तमिव व्यलम्बत। अन्तरिते च सेनापतौ स सुचिरमारुक्षुस्तं वनस्पतिमामूलदपश्यत्।उत्क्रान्तमिव तस्मिन् क्षणे तदालोकनभीतानां शुककुलानामसुभिः। किमिव हि दुष्करमकरुणानाम् यतः स तमयत्नेनैव पादपमारुह्य फलानीव तस्य वनस्पतेः कोटरेभ्यः शुकशावकानग्रहीत्। अपगतासूंश्च कृत्वा क्षितावपादयत्।

(क) एकपदेन उत्तरत -
(i) तरुतले कः मुहूर्तमिव व्यलम्बत?
उत्तरम् - जरच्छबरः।

(ख) पूर्णवाक्येन उत्तरत - 
(i) शबरः किं कृत्वा शुकशावकान् क्षितावपादयत्?
उत्तरम् - शबरः कोटरेभ्यः शुकशावकान् अपगतासूं कृत्वा क्षितावपादयत्।

(ग) निर्देशानुसारं उत्तरत - 
(i) करुणानाम् अस्य विलोमपदं किम् अत्र प्रयुक्तम्?
उत्तरम् - अकरुणानाम्।

(ii) सः सुचिरमारुक्षुस्तं अत्र सः इति सर्वनामपदस्थाने संज्ञापदप्रयोगः कर्त्तव्यः?
उत्तरम् - जरच्छबरः।

(ब) अधोलिखितं पद्यांशं पठित्वा प्रश्नान् उत्तरत - 
अर्थागमो नित्यमारोगिता च प्रिया च भार्या प्रियवादिनी च।
वयश्च पुत्रोऽर्थरी च विद्या षड् जीवलोकस्य सुखानि राजन्।।

 (क) एकपदेन उत्तरत - 
(i) पुत्रः कीदृशः भवेत्?
उत्तरम् - वयः।

(ख) पूर्णवाक्येन उत्तरत - 
(i)  जीवलोके कीदृशी भार्या भवेत्?
उत्तरम् - जीवलोके प्रिया प्रियवादिनी च भार्या भवेत्।

(ग)  निर्देशानुसारम् उत्तरत - 
(i)  प्रिया भार्या अनयोः पदयोः विशेष्यपदं किम्?
उत्तरम् - भार्या।

(ii) मृदुभाषिणी अस्य पदस्य पर्यायवाचिपदं लिखत?
उत्तरम् - प्रियवादिनी।

(स) अधोलिखितं नाट्यांश पठित्वा प्रश्नान् उत्तरत - 

बालः - जृम्भस्व सिंह ! दत्तास्ते गणयिष्ये।
प्रथमा - अविनीत ! किं नोऽपत्य निर्विशेषाणि सत्त्वानि विप्रकरोषि ? हन्तः वर्धते ते संरभ्यः। स्थाने खलु ऋषिजनेन सर्वदमनः इति कृतनामधेयोऽसि।
दुष्यन्तः - किं न खलु बालेऽस्मिन् औरस इव पुत्रे स्निह्यति मे मनः? नूनमनपत्यता मां वात्सलयति
द्वितीया - एषा खलु केसारिणी त्वां लङ्घयिष्यति यद्यस्याः पुत्रकं न मुञ्चसि। 
बालः -  (सस्मितम्) अहो बलीयः खलुभीतोऽस्मि (इत्यधरं दर्शयति)।

(क) एकपदेन उत्तरत - 
(i)  बालः कान् गणयितुम् इच्छति?
उत्तरम् - दन्तान्।

(ख) पूर्णवाक्येन उत्तरत - 
(i)  का दुष्यन्तं वत्सलयति?
उत्तरम् - नूनमनपत्यता दुष्यन्तं वत्सलयति। 

(ग) निर्देशानुसारम् उत्तरत - 
(i) विनीत अस्य विलोमपदं लिखत ?
उत्तरम् - अविनीत।

(ii) स्निह्यति मे मनः अत्र मे सर्वनामपदं कस्मै प्रयुक्तम् ?
उत्तरम् - दुष्यन्ताय।

प्रश्नः -12. निर्देशानुसारं प्रश्नान् उत्तरत - 

                भद्रमुख मोचयानेन बाध्यमानं बालमृगेन्द्रम् ।
(क) एषा पंक्ति कस्मात् ग्रन्थात् संकलिता ?
उत्तरम् - अभिज्ञानशाकुन्तलात 

(ख) अस्य ग्रन्थस्य लेखकः कः ?
उत्तरम् - महाकविकालिदासः

(ग) एषा पक्ति केन कं प्रति कथिता ?
उत्तरम् - एषा पंक्तिः तापसी राजा दुष्यन्तं प्रति कथिता

प्रश्नः - 13.  अधोलिखितस्य श्लोकस्य प्रदत्तभावार्थं मञ्जूषातः समुचितपदानि चित्वा पूरयत - 
यस्मिन् देशे न सम्मानो न वृत्तिर्न बान्धवाः।
न च विद्यागमः कश्चिद् वासं तत्र न कारयेत्।।

मञ्जूषा -     कदापि, आजिविकासाधनानि, भवतु।

भावार्थः - यस्मिन् देशे व्यक्तिः आदरं न प्राप्नोति............ यत्र न भवन्तु विद्यागमः यत्र न ........ बन्धुबान्धवाः च यत्र न निवसन्तु तस्मिन् देशे ........... न वसेत्।

उत्तरम् -
भावार्थः - यस्मिन् देशे व्यक्तिः आदरं न प्राप्नोति आजिविकासाधनानि यत्र न भवन्तु विद्यागमः यत्र न भवतु बन्धुबान्धवाः च यत्र न निवसन्तु तस्मिन् देशे कदापि न वसेत्।

प्रश्नः -14.  अधोलिखितस्य श्लोकस्य प्रदत्तान्वये रिक्तस्थानपूर्तिः कुरुत - 
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम्।
वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः।।

अन्वयः - तदा प्रीतात्मा स (अतिथिः) तं द्विजर्षभम् इदम् .................. आह - (त्वं) तु ............. वाग्मी धर्मः ........ (च असि)।
उत्तरम् - 
अन्वयः - तदा प्रीतात्मा स (अतिथिः) तं द्विजर्षभम् इदम् वाक्यम् आह - (त्वं) तु द्विजश्रेष्ठो वाग्मी धर्मः पुरुषविग्रहः (च असि)।

प्रश्नः -15.  अधोलिखितानि वाक्यानि शुद्धक्रमेण लेखनीयानि - 
        (क) तस्य पश्चिमे तीरे महाजीर्णः शाल्मलीवृक्षः।
        (ख) तस्यां च पम्पाभिधानं पद्मसरः।
        (ग) अस्ति मध्यदेशालङ्कारभूता मेखलेव भुवो विन्ध्याटवी नाम।

उत्तरम् - 
         (क) अस्ति मध्यदेशालङ्कारभूता मेखलेव भुवो विन्ध्याटवी नाम।
         (ख) तस्यां च पम्पाभिधानं पद्मसरः।
         (ग) तस्य पश्चिमे तीरे महाजीर्णः शाल्मलीवृक्षः।

प्रश्नः - 16.  रेखांकितपदानां प्रसंगानुसारम् अर्थं लिखत - 

(क) वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः।
(अ) वाचालः (ब) श्रेष्ठवक्ता (स) अश्वः 
उत्तरम् -  (ब) श्रेष्ठवक्ता।

(ख) नूनम् अनपत्यता मां वात्सलयति।
(अ) पत्रहीनता (ब) सन्तानहीनता (स) पत्नीहिनता
उत्तरम् -  (ब) सन्तानहीनता

(ग) उत्क्रान्तमिव तस्मिन् क्षणे तदालोकभीतानां  शुककुलानाम् असुभिः।
(अ) अश्रूभिः (ब) प्राणैः (स) समूहैः
उत्तरम् -  (ब) प्राणैः।

(घ) एषा खलु केसारिणी त्वां लङ्घयिष्यति यद्यस्याः पुत्रकं न मुञ्चसि ।
(अ) मृगपत्नी (ब) सिंहपत्नी (स) अश्वपत्नी 
उत्तरम् -  (ब) सिंहपत्नी। 

प्रश्नः - 17. (अ) संस्कृतम् इति पदस्य व्युत्पत्तिं लिखत - 

उत्तरम् - 
अथवा
         समुचितं मेलनं कुरुत - 
        रचना                               रचयिता 
        (क) हर्षचरित                  कालिदासः
        (ख) दशकुमारचरितम्          भारविः
        (ग) किरातार्जुनीयम्              दण्डी 
        (घ) कुमारसम्भवम्            बाणभट्टः
उत्तरम् -
                रचना                            रचयिता 
            (क) हर्षचरित                   बाणभट्टः
            (ख) दशकुमारचरितम्      दण्डी
            (ग) किरातार्जुनीयम्         भारविः  
            (घ) कुमारसम्भवम्         कालिदासः
   
(ब) अधोलिखितासु कृतिषु एकस्य परिचयं लिखत - 

वेदः, उपनिषद्, पुराणम्, स्मृति, रामायणम्, महाभारतम् 
उत्तरम् - 
 वेदः

 वेदः भारतीयानां हि आद्या धर्मग्रन्थाः सन्ति।  संस्कृत- वाङमये वेदानां स्थानं सर्वोपरि वर्तते। वेद शब्दस्य अर्थ ज्ञानं भवति। विद्यन्ते धर्मादयः पुरुषार्था यैः ते वेदाः। सायणाचार्येण वेद विषये कथितम् अस्ति यत् - अपौरुषेयवाक्यं वेदः , इष्टप्राप्त्यनिष्टपरिहारयोः अलौकिकं साधनं यो वेदयति स वेदः। संहिता- ब्राह्मण- आरण्यक-उपनिषद्  च इति वेदस्य चत्वारः विभागाः विद्यन्ते। संहिता भेदेने वेदस्य चत्वारः विभागाः भवन्ति। तद्यथा - ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः च।


(स) अधोलिखितेषु कविषु एकस्य देशकालकृतीनां वर्णनं कुरुत - 
(अ)  महाकविः बाणभट्टः         (ब) महाकवि कालिदासः
(स) अश्वघोषः                     (द) श्रीहर्षः
उत्तरम् -
अश्वघोषः

 अश्वघोषः अश्वघोषस्य विश्वप्रसिद्धः कृति बुद्धचरितम् अस्ति। अन्तः-बाह्यसाक्ष्याधारेण अश्वघोषस्य काल विषये कथ्यते यत् - अश्वघोषः कनिष्क समकालीनः अस्ति अतः प्रथम ई.पू. अस्य कालः निश्चीयते। अश्वघोषस्य देश (स्थानं) मगधराज्यम् इति मन्यते। अश्वघोषेण विरचितं बुद्धचरिते सप्तदश सर्गाः विद्यते।


(द) समुचितपदानि चित्वा परिभाषा पूरयत - 

        (अ) अवस्थानुकृतिः ..........। (काव्यम्, नाट्यम्)
        (ब) आनन्दयति लोकान् इति ......। (स्वगतम्, नान्दी)
        (स) काव्येषु नाटकं रम्यं तत्र रम्या .......। (वासवदत्ता, शकुन्तला)
उत्तरम् -
        (अ) अवस्थानुकृतिः नाट्यम्। 
        (ब) आनन्दयति लोकान् इति नान्दी। 
        (स) काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला

कक्षा-11 संस्कृत अर्द्धवार्षिक परीक्षा का पेपर हल
Class-11 Sanskrit Half Yearly Exam Question Paper Solution.


एक टिप्पणी भेजें (0)
और नया पुराने