कक्षा-9 संस्कृत अर्द्धवार्षिक परीक्षा पेपर हल Class-9 Sanskrit Half Yearly Exam Paper Solution.

 कक्षा-9 संस्कृत अर्द्धवार्षिक परीक्षा पेपर हल Class-9 Sanskrit Half Yearly Exam Paper Solution.

कक्षा-9 संस्कृत अर्द्धवार्षिक परीक्षा पेपर हल Class-9 Sanskrit Half Yearly Exam Paper Solution. यहाँ किया गया है। उत्तराखंड बोर्ड ऑफ स्कूल एजुकेशन Uttarakhand Board Of School Education - Govt. Of Uttarakhand के संस्कृत के विद्यार्थी इस लेख के द्वारा  कक्षा-9 संस्कृत अर्द्धवार्षिक परीक्षा पेपर हल Class-9 Sanskrit Half Yearly Exam Paper Solution. करने में सहायता ले सकते हैं।

अर्द्धवार्षिक परीक्षा 2022- 2023 कक्षा-9  विषय - संस्कृत 

अर्द्धवार्षिक परीक्षा 2022- 2023

विषय - संस्कृत

समय - 3.00 घंटा           कक्षा-9                 पूर्णांक - 80

निर्देशाः - 

        १. प्रश्नानां निर्देशाः ध्यानेन सावधानतया पठनीयाः।

        २. अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति।

        ३. प्रश्नपत्रे  21 प्रश्नाः सन्ति। सर्वे प्रश्नाः अनिवार्याः सन्ति।

        ४. सर्वेषाम् प्रश्नानाम् अंकाः तेषां सम्मुखे लिखिताः सन्ति।

खण्डः - "क" (अपठितांश-अवबोधनम्)

प्रश्नः - 1. अधोलिखितं अनुच्छेदं पठित्वा अनुच्छेदाधारितानाम् प्रश्नानाम् उत्तराणि लिखत - 

भारतीया संस्कृतिः प्राचीना। स्वामी विवेकानंदः अपि अमेरिका देशे भाऋतीय-संस्कृत्याः प्रचारं करोति स्म। एकदा कश्चन श्रोता तस्योपरि उपहासपूर्वकम् उक्तवान् - अहो! भारतीय-संस्कृत्याः विसंगतिः। लक्ष्म्याः वाहनम् उलूकः सरस्वत्याः च वाहनं हंस इति। विवेकानंदः तम् अवदत् - एष एव अस्माकं भवतां च मध्ये चिन्तनभेदः दृष्टिभेदश्च। अस्याः आशयोः यत् - धन - आधीनजनः सर्वदा उलूकवत् आचरति, विवेकम् आश्रितः नरः एव विद्वान् भवति। अतएव सरस्वत्याः वाहनं हंसः लक्ष्म्याश्च वाहनम् उलूक इति।

(क) एकपदेन उत्तरत -         2
(अ) का प्राचीना ?
        उत्तरम् - भारतीया संस्कृतिः।

(ब) विवेकानंदः कुत्र गतवान् ?
        उत्तरम् - अमेरिका ।

(ख)  पूर्णवाक्येन उत्तरत -             1
(अ) उक्त गद्यांशस्य उचितं शीर्षकं लिखत ?
        उत्तरम् -  भारतीया संस्कृतिः।

(ग)  निर्देशानुसारम् उत्तरत -         2
(अ) विवेकः इत्यस्य विलोमपदं किम् ?
        उत्तरम् - अविवेकः ।

(ब) कश्चन इत्यस्य विच्छेदं लिखत ?
        उत्तरम् - कः + चन। 

प्रश्नः - 2.  अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नानाम् उत्तरत - 

सर्वस्मिन् विश्वे कोरोना नामकं संक्रमणं व्याप्तम्। एतत् संक्रमणं शीघ्रमेव एकस्मात् नगरात् अपरं नगरं प्रति तथा एकस्मात् मनुष्यात् अपरं मनुष्यं प्रतिगच्छति। 'गजद्वयं परिमितं दूरं,  अनिवार्यं मुखावरणं धारणम्' इयम् उक्तिः जागरुकतायै सर्वत्र आचरिता। भारतीय चिकित्सकाः अस्मात् संक्रमणात् रक्षणाय सूच्यौषधम् (वैक्सीन) निर्मितवन्तः। कोरोना महामारीतः रक्षणार्थं मुखावरणं धारणीयं पुनः पुनः हस्तौ प्रक्षालनीयौ आवश्यकं वर्तते। 

(क)  एकपदेन उत्तरत - 
(अ) विश्वे किं नामकं संक्रमणं व्याप्तम्।
        उत्तरम् - कोरोना संक्रमणम्।

(ब) भारतीयचिकित्सकाः किं निर्मितवन्तः ?
        उत्तरम् -  सूच्यौषधम् (वैक्सीन)।

(ख)  पूर्णवाक्येन उत्तरत - 
(अ) कोरोना संक्रमणात् रक्षणाय किं करणीयम् ?
उत्तरम् - कोरोना संक्रमणात् रक्षणार्थं मुखावरणं धारणीयं पुनःपुनः हस्तौ प्रक्षालनीयौ आवश्यकं करणीयम्।

(ग)  निर्देशानुसारम् उत्तरत - 
(अ) गच्छति पदे कः धातु ?
        उत्तरम् - गम् धातुः।

(ब) धरणीयम् पदे कः प्रत्ययः ?
        उत्तरम् - अनीयर् प्रत्ययः।

(स) अतएव कथ्यते अत्र क्रियापदं किम् ?
        उत्तरम् -  कथ्यते।
खण्ड:  -  'ख' (संस्कृतेन रचनात्मकं कार्यम्)

प्रश्नः - 3. स्वविद्यालयस्य वार्षिकोत्सवे मित्रं प्रति लिखितमिदं निमन्त्रणपत्रं संकेतसूच्याः उचितैः पदैः सम्पूरयत - 

संकेतसूची     -      वार्षिकोत्सवः, समाचारः, समारोहस्य, नमस्ते, चतुर्दशदिनांके।

प्रियमित्रम् !
सप्रेम (I).............…। अत्र कुशलं तत्रास्तु। शुभ(ii)..........अयं यत् प्रतिवर्षम् अस्माकं विद्यालये (iii) ........... भवति। अक्टूबर-मासस्य (iv)..............कार्यक्रमः भविष्यति। अतः तुभ्यं निमन्त्रणम् अस्ति। अत्र आगत्य (v) ...........शोभां वर्धय।भवदीय मित्रम्

 उत्तरम् - 

प्रियमित्रम् !

सप्रेम (I) नमस्ते। अत्र कुशलं तत्रास्तु। शुभ(ii)समाचारः अयं यत् प्रतिवर्षम् अस्माकं विद्यालये (iii) वार्षिकोत्सवः  भवति। अक्टूबर-मासस्य (iv)चतुर्दशदिनांके  कार्यक्रमः भविष्यति। अतः तुभ्यं निमन्त्रणम् अस्ति। अत्र आगत्य (v)समारोहस्य शोभां वर्धय।भवदीय मित्रम्

प्रश्नः - 4. मूञ्जूषातः पदानि चित्वा अधोलिखितं संवादं पूरयत - 

मूञ्जूषाः     -     क्रीडास्पर्धाः, गच्छथ, खेलिष्यन्ति, एकस्मिन्।

 उत्तरम् - 

सुधा - यूयं कुत्र (I)खेलिष्यन्ति?

मयूरः - वयं विद्यालयं गच्छामः।

अशोकः - तत्र (ii) क्रीडास्पर्धाः सन्ति। वयं खेलिष्यामः।

रमेशः - किं स्पर्धा केवलं बालकेभ्यः एव सन्ति।

मधु - बालिकाः अपि खेलिष्यन्ति। 

रमेशः - किं यूयं सर्वे (iii)एकस्मिन्  दले स्थ ? अथवा पृथक् पृथक् दले ?

मधु -  तत्र बालिकाः च मिलित्वा (iv)खेलिष्यन्ति। बैडमिंटन, कबड्डी, नियुद्धं, पादकन्दुकं, चतचरंगः, इति स्पर्धा भविष्यन्ति।

प्रश्नः - 5. भारतदेशः इति विषयम् अधिकृत्य मूञ्जूषां प्रदत्तपदैः चतुर्वाक्यानि (4वाक्य) लिखत - 8
मूञ्जूषा     -     वन्दनीयः, श्रेष्ठः, वीराः, अस्माकं, संस्कृतिः, होली, दीपावली, पर्वाः, महात्मागांधी, भगतसिंह, दिल्ली, गंगा, त्रिवर्णध्वजः, राष्ट्रीयपर्वः, अर्थव्यवस्था, जनसंख्या।

(१) अस्माकं देश: भारतदेश: अस्ति।
(२) भारतीया संस्कृति: तोषदयानी अस्ति।
(३)  दीपावलीपर्वः भारतीयानां प्रमुखं राष्ट्रीयपर्वः अस्ति।
(४) भारतदेशस्य अर्थव्यवस्था मिश्रितार्थव्यवस्थास्ति।

खण्ड-ग (अनुप्रयुक्तं व्याकरणम्)

प्रश्नः - 6.  निर्देशानुसारम् उत्तरत - 

(अ) एकपदेन उत्तरत - 

(क) अन्तस्थवर्णाः कति ?

उत्तरम् -  अन्तस्थवर्णाः चत्वारि सन्ति

(ख) क, ज, ट, त वर्णेषु कः वर्णः दन्त्यः अस्ति। 

उत्तरम् -  'त'  वर्ण: दन्त्यवर्ण: अस्ति।

(ब) वर्णसंयोजनं / विन्यासं च कुरुत - 

(क) प्+ इ+त्+अ+र्+औ इत्यस्य संयोजनं कुरुत।

        उत्तरम् -     पितरौ।

(ख) स्वागतम् इत्यस्य विन्यासं कुरुत - 

उत्तरम् -  स्+व्+आ+ग्+त्+अ+म् ।

प्रश्नः - 7.  निर्देशानुसारम् उत्तरत - 

(अ)  सन्धिं / विच्छेदकार्यं कुरुत (अच्) -

प्रश्नोत्तर - 

(क) महा+उत्सवः         महोत्सवः

(ख)  इत्येवम्     =     इति+एव

(ब)  सन्धिं / विच्छेदकार्यं कुरुत (हल्) -

प्रश्नोत्तर - 

(क) लब्धः     =     लभ् + ध:

(ख) सत् + आचारः     =      सदाचार:

(स) विसर्गसन्धिकार्यं कुरुत - 

 बालः + अपि =  बालो अपि

प्रश्नः - 8. कोष्ठकात् उचितशब्दरूपं चित्वा रिक्तस्थानं पूरयत -
प्रश्नोत्तर - 
(क) बालकाः कन्दुकेन क्रीडन्ति। (बालकाय, बालकाः)

(ख) अहं पुस्तकालयात् पुस्तकानि आनयामि। (पुस्तकालयात्, पुस्तकालयेषु)

(ग)  गुरवे  नमः । (गुरवे, गुरु)

(घ) मात्रा सह पुत्री गच्छति। (मात्रा, माता)

(ङ) छात्रः लेखन्या लिखति। (लेखनीं, लेखन्या)

(च) विद्यालये (108)अष्टोत्तरशतम् छात्राः सन्ति। (अष्टोत्तरशतम्, शाताधिकाष्टशतम्)

(छ) युवां कुत्र पठथः। (युवां, यूयम्)

प्रश्नः - 9. उचित-धातुरुपैः वाक्यानि पूरयत -

प्रश्नोत्तर - 

(क)  त्वं कुत्र गच्छसि ? (गम् लट् मध्यमपुरुष-एकवचनम्)

(ख)  अद्य अहं गृहं न गमिष्यामि। (गमिष्यसि, गमिष्यामि)

(ग)  वयं सेवामहे। (सेवामहे, सेवावहे)

(घ)  भिक्षुकः जनेभ्यः भोजनं अयाचत। (अयाचत, अयाचे)

प्रश्नः - 10. उपपदविभक्तीनां समुचितं प्रयोगः कुरुत -

 प्रश्नोत्तर - 

(क) भोजनात् पूर्वम् सः हस्तौ प्रक्षालयति। (पूर्वेण, पूर्वम्)

(ख) विद्यालयस्य अन्ते छात्राः सन्ति। (अन्तः, अन्ते)

(ग) सः अध्ययनेन निपुणम् अस्ति। (निपुणं, निपुणे)

(घ) श्री गणेशाय नमः ( नमः, नमामि)

प्रश्नः - 11.  कोष्ठके प्रदत- प्रत्यय द्वारा पदनिर्माणं कुरुत - 

प्रश्नोत्तर - 

(क) एतत् श्रुत्वा व्याघ्रः अचिन्तयत्। (श्रु+क्त्वा)

(ख) अहं प्रातः उत्थाय उद्यानं भ्रमितुं गच्छमि। (उत्+स्था+ल्यप्)

खण्डः - घ ( पठित- अवबोधनम्)

प्रश्नः - 12. अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत - 

अथ पित्रा तथा इति अभ्यनुज्ञातः स जीमूतवाहनः कल्पतरुम् उपगम्य उवाच - "देव ! त्वया असमत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः तन्ममैकं कामं पूरय। यथा पृथिवीमदरिद्रां पश्यामि तथा करोतु देव" इति। एवं वादिनि जीमूतवाहने "त्यक्तस्त्वया एषोऽहं यातोऽस्मि" इति वाक् तस्मात् तरोः  उदभूत्।

(अ)   एकपदेन उत्तरत -

(क)   जीमूतवाहनः पृथ्वीं कीदृशीं दृष्टुम् ऐच्छत् ?

       उत्तरम्  - अदरिद्राम्।

(ख)   जीमूतवाहनः किम् उपगम्य उवाच ?

        उत्तरम्  - कल्पतरुम्।

(ब)   निर्देशानुसारम् उत्तरत - 2

(क)   दरिद्राम् अस्य विलोमपदं किम् ?

        उत्तरम्  - अदरिद्राम्।

(ख)   पित्रा इति शब्दस्य प्रथमैकवचनरुपं लिखत ?

        उत्तरम्  - पिता।

(स)  उपरोक्तगद्यांशस्य शीर्षकं लिखत ?

        उत्तरम्  - कल्पतरुः।

प्रश्नः -12. (ख) पद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत - 

लतानां नितान्तं सुमं शान्तिशीलम्, 
चलेदुच्छलेत्कान्तसलिलं सलीलम्।
तवाकर्ण्य वीणामवादीनां नदीनां
निनादय नवीनामये वाणि ! वीणाम्।।

(अ)  एकपदेन उत्तरत -

(क)   अत्र का सम्बोधिता ?

        उत्तरम्  -  वाणि ! (सरस्वती)।

(ख) कासां जलम् उच्छलेत् ?

        उत्तरम्  -  नदीनाम्

(ब) प्रस्तुत गीतस्य गीतकारः कः ?

उत्तरम्  -  पण्डित जानकीवल्लभशास्त्रिण:

(स)  प्रश्नाधारितम् उत्तरं लिखत - 

(क) तवाकर्ण्य शब्दस्य विच्छेदं कुरुत ?

    उत्तरम्  -  तव + आकर्ण्य  

(ख) सलिलं सलीलम् अत्र विशेषणपदं किम् ?

    उत्तरम्  -  सलिलम्

प्रश्नः - 12. (ग)  अधोलिखितं नाट्यांश पठित्वा प्रश्नान् उत्तरत - 

चन्दनः - नमस्करोमि तात ! पंचदश घटान् इच्छमि। किं दास्यासि?
देवेशः - कथं ? विक्रयणाय एव एते। गृहाण घटान् पञ्चाशदुत्तरैकशतं रुप्यकाणि च देहि।
चन्दनः - साधु ! परं मूल्यं तु दुग्धं विक्रीय एव दातुं शक्यते।
मल्लिका - (स्वाभूषणं दातुमिच्छति) तात! यदि अधुनैव मूल्यम् आवश्यक तर्हि गृहाण एतत् आभूषणम्।

(अ)  एकपदेन उत्तरत - 

(क)  का स्वाभूषणं दातुमिच्छति ?

    उत्तरम्  -  मल्लिका

(ख) पञ्चाशदुत्तरैकशतं इति संख्या अंकेषु लिखत ?

    उत्तरम्  -  115 

(स) उपरोक्तनाट्यांशः कस्मात् पुस्तकात् उद्धृतः?

    उत्तरम्  - कृष्णचंद त्रिपाठी कृत चतुर्म्यहम्

प्रश्नः - 13.  अधोलिखितयोः श्लोकयोः भावार्थम् उपयुक्तपदैः पूरयित्वा उत्तरपुस्तिकायां लिखत - 

(क)  प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का द्ररिद्रता।।

भावार्थः - अस्मिन् संसारे सर्वे प्राणिनः प्रियवाक्यप्रदानेन (i) ............। तस्मात् कारणात् सर्वेः तदेव वक्तव्यं वचने का (ii) दरिद्रता।
उत्तरम्  -
अस्मिन् संसारे सर्वे प्राणिनः प्रियवाक्यप्रदानेन (i) तुष्यन्ति। तस्मात् कारणात् सर्वेः तदेव वक्तव्यं वचने का (ii)दरिद्रता
(ख) निनादय नवीनामये वाणि! वीणाम्
मृदुं गाय गीतिं ललित-नीति-लीनाम्।

भावार्थः - कविः सरस्वतीं प्रतिं कथयति - अये वाणि! नूतनां वीणा (i) .........। ललितनीतियुक्तां गीतिं मृदुं (ii) .......।।
उत्तरम् 
कविः सरस्वतीं प्रतिं कथयति - अये वाणि! नूतनां वीणा (i) निनादय। ललितनीतियुक्तां गीतिं मृदुं (ii)गाय.।।

प्रश्नः - 14.   अधोलिखितं श्लोकं पठित्वा अन्वयं पूरयत - 

श्रूयतां धर्मस्वं श्रूत्वा चैवावधार्यताम्,
आत्मनः प्रतिकूलानि परेषां न समाचरेत्।।
अन्वयः - धर्मसर्वस्वं  श्रूयतां च श्रूत्वा एव (i) ..........। आत्मनः (ii) .........। परेषां न समाचरेत्।
उत्तरम् -
धर्मसर्वस्वं  श्रूयतां च श्रूत्वा एव (i) वधार्यताम्। आत्मनः (ii)प्रतिकूलानि । परेषां न समाचरेत्।

प्रश्नः - 15.   रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत - 

(क)  कुक्कुरः मानुषाणां मित्रम् अस्ति।

उत्तरम् -  क: मानुषाणां मित्रम् अस्ति ?

(ख)  वृक्षाः फलं न खादन्ति।

उत्तरम् - वृक्षाः किं न खादन्ति।

(ग)  सः कल्पतरुं न्यवेदयत्।

उत्तरम् -  सः कम्  न्यवेदयत्।

प्रश्नः - 16. अधोलिखितानि वाक्यानि घटनाक्रमेण संयोज्य लिखत - 

 (क) सा सखीभिः सह तीर्थयात्रायैः काशीविश्वनाथमन्दिरं गच्छति।

(ख) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।

(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकता विषये चन्दनं सूचयति।

(घ) मल्लिका पूजार्थं मोदकानि रचयति।

(ङ) उत्सवदिवसे यदा दोग्धं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।

(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।

(छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासापर्यन्तं दोहनं न करोति।

(ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।

उत्तरम् -

(क) मल्लिका पूजार्थं मोदकानि रचयति।

(ख) सा सखीभिः सह तीर्थयात्रायैः काशीविश्वनाथमन्दिरं गच्छति।

(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकता विषये चन्दनं सूचयति।

(घ)  चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासापर्यन्तं दोहनं न करोति।

(ङ)  चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।

(च) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।

(छ) उत्सवदिवसे यदा दोग्धं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।

(ज) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।

प्रश्नः - 17.  निम्नांकितशब्दयोः संस्कृतेन वाक्यप्रयोगं कुरुत - 

(क) पूजार्थम्         (ख) निनादय 

उत्तरम् - 

(क) अहं पूजार्थं हरिद्वारं गमिष्यामि।

(ख) भो मोहन ! हारमोनियम् निनादय।

कक्षा-9 संस्कृत अर्द्धवार्षिक परीक्षा पेपर हल .


एक टिप्पणी भेजें (0)
और नया पुराने