Class 10 Sanskrit Question Paper with answers U.K. Board. कक्षा 10 संस्कृत प्रश्न पत्र

Class 10 Sanskrit Question Paper with answers U.K. Board. कक्षा 10 संस्कृत प्रश्न पत्र

Class 10 Sanskrit Question Paper with answers U.K. Board. कक्षा 10 संस्कृत प्रश्न पत्र। आप इस लेख के द्वारा  अर्द्धवार्षिक परीक्षा 2022-2023 कक्षा-10 विषय-संस्कृत  Class 10 Sanskrit Question Paper with answers. प्रश्न पत्र के उत्तर को जान सकते हैं। 

 अर्द्धवार्षिक परीक्षा 2022-2023 विषय -संस्कृत कक्षा -10 

 अर्द्धवार्षिक परीक्षा 2022-2023 विषय -संस्कृत कक्षा -10 को चार भागों में विभाजित किया गया है, जो इस प्रकार से हैं - खण्डः - क (अपठितांश-अवबोधनम्), खण्डः - ख (संस्कृतेन-रचनात्मकं कार्यम्), खण्डः - ग (अनुप्रयुक्तं  व्याकरणम्), खण्डः - घ (पठित-अवबोधनम्)। 

 अर्द्धवार्षिक परीक्षा 2022-2023

विषय -संस्कृत

समय - 3.00घण्टा         कक्षा -10                 पूर्णांक - 80 

निर्देशाः - (१) प्रश्नानां निर्देशाः ध्यानेन सावधानतया पठनीयाः।

(२) अस्मिन् प्रश्नपत्रे चत्वारि खण्डाः सन्ति।

(३) प्रश्नपत्रे 21 प्रश्नाः सन्ति। सर्वे प्रश्नाः अनिवार्याः सन्ति।

(४) सर्वेषां प्रश्नानाम् अंकाः तेषां सम्मुखे लिखिताः सन्ति।

खण्डः - क (अपठितांश-अवबोधनम्)

प्रश्नः- 1. अधोलिखितं अनुच्छेदं पठित्वा अनुच्छेदाधारितानाम् प्रश्नानाम् उत्तराणि लिखत -

मातरः सर्वभूतानां गावः सर्वसुखप्रदाः उक्तकथनं गोश्रेष्ठतां प्रतिपादयति। वस्तुतस्तु गौः अस्माकं माता अस्ति। यतः गौः स्व-अमृतोपमने दुग्धेन मातृवत् अस्मान् पालयति। गौराकृति अति सरला मनोहरा च भवति। गोमूत्रपानेन उदररोगाः नश्यन्ति। अस्माभिः गोपालनं गोरक्षणं च कर्तव्यम्। उक्तं च - गावो ममाग्रतः सन्तु, गावो मे सन्तु पृष्ठतः।

(क) एकपदने उत्तरत - 

(अ) सर्वसुखप्रदाः काः ?

    उत्तरम् - गौः।

(ब) गौः कीदृशेन दुग्धेन अस्मान् पालयति?

    उत्तरम् - अमृतोपमने दुग्धेन।

(ख) पूर्णवाक्येन उत्तरत.- 

(अ) अस्माभिः किं कर्तव्यम् ?

उत्तरम् -  अस्माभिः गोपालनं गोरक्षणं च.कर्तव्यम्।

(ग) निर्देशानुसारं उत्तरत - 

(अ) गौः इत्यस्य एकं पर्यायवाचिपदं लिखत - 

    उत्तरम् - धेनु:

(ब) गौराकृतिः इत्यस्मिन् पदे सन्धि-विच्छेदं कुरुत?

    उत्तरम् -  गौः + आकृतिः।

प्रश्नः - 2.  अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत - 

संस्कृतभाषा राष्ट्रस्य ऐक्यं साधति। दिव्या गीर्वाणवाणी सर्वभाषासु रम्या, मधुरा च अस्ति। संस्कृतस्य सूक्तयः अस्माकं जीवनस्य दिशां निर्धारयन्ति। जीवनस्य सर्वेषु संस्कारेषु संस्कृतस्य प्रयोगः भवति। संस्कृतस्य गौरवं प्रति कस्यापि हृदये संशयः नास्ति। सर्वे ज्ञान-विज्ञान-संस्कृतिबोधकाः ग्रन्थाः मूलरुपेण संस्कृतभाषायामेव लिखिताः सन्ति।अत एव कथ्यते - "संस्कृतिः संस्कृताश्रिता"। 

(क)     एकपदने उत्तरत - 

(अ)  का राष्ट्रस्य ऐक्यं साधयित ?

    उत्तरम् -  संस्कृतभाषा।

(ब) संस्कृतसूक्तयः कस्य दिशां निर्धारयन्ति ?

     उत्तरम् -  अस्माकं जीवनस्य।

(ख) पूर्णवाक्येन उत्तरत - 

(अ)  जीवनस्य केषु क्षेत्रेषु संस्कृतस्य प्रयोगः भवति ?

 उत्तरम् -  जीवनस्य सर्वेषु संस्कार-क्षेत्रेषु संस्कृतस्य प्रयोगः भवति।

(ब)  गीर्वाणवाणी सर्वभाषासु कीदृशी अस्ति ?

 उत्तरम् -  गीर्वाणवाणी सर्वभाषासु रम्या, मधुरा च अस्ति।

(ग) निर्देशानुसारम् उत्तरत - 

(अ)  दिव्या इत्यस्य विशेष्यपदं किम् ?

     उत्तरम् -  गीर्वाणवाणी ।

(ब)  अत एव कथ्यते इत्यत्र क्रियापदं किम् ?

     उत्तरम् -  कथ्यते ।

(घ)  अस्य अनुच्छेदस्य उपयुक्तं शीर्षकं लिखत - 

 उत्तरम् -  संस्कृतभाषायाः महत्त्वम्।

खण्डः - ख (संस्कृतेन-रचनात्मकं कार्यम्)

प्रश्नः -3. विद्यालयस्य वार्षिकोत्सवम् अधिकृत्य मित्रं प्रति लिखित-पत्रे मञ्जूषायां प्रदत्तपदैः रिक्तस्थानानि पूरयत - 

मञ्जूषा     -     प्रशंसा, मुख्यातिथिः, उत्तमेभ्यः, वार्षिकोत्सवः।

प्रश्नोत्तर -

प्रिय मित्र !

गतसप्ताहे विद्यालयस्य (i) वार्षिकोत्सवः आसीत्। कार्यक्रमस्य (ii) मुख्यातिथिः शिक्षानिनेदशक-महोदयः आसीत्। सः कार्यक्रमस्य बहु (iii) प्रशंसा कृतवान्। तेन (iv)  उत्तमेभ्यः छात्रेभ्यः पुरस्काराः अपि दत्ता।

प्रश्नः - 4.  मञ्जूषातः पदानि चित्वा अधोलिखितं संवादं पूरित्वा लिखत - 

मञ्जूषा     -     गेणश-लक्ष्मी , दीपाः, हर्षोउल्लासेन, जनाः।

प्रश्नोत्तर -

सुरभिः   -   सुरेशः ! कस्मिन् पर्वणि दीपाः प्रज्वाल्यन्ते।

सुरेशः   -   भगिनि ! दीपावलीपर्वणि जनाः दीपान् ज्वालयन्ति।

सुरभिः   -   भारतीयाः वयं गणेश-लक्ष्मी पूजनम् अपि कुर्मः।

सुरेशः    -    सर्वे दीपावली-उत्सवं हर्षोउल्लासेन आचरन्ति।

प्रश्नः - 5.  विद्यालये वन-महोत्सवः इति विषयमधिकृत्य मञ्जूषायां प्रदत्तपदैः चर्तुवाक्यानि (4 वाक्य) रचयत - 

मञ्जूषा - वृक्षाणां, संरक्षणं, पुण्यं कर्त्तव्यं, विद्यालये, वन-महोत्सवः, छात्राः शिक्षकाः, आम्र-अशोक-बिल्वं-पिप्पलवृक्षाः प्रतिदिनं, सिञ्चनम्।

(१) अस्माकं विद्यालये श्रीदेव सुमन दिवसोपलक्ष्ये वनमहोत्सवस्य आयोजनम् अस्ति। 

(२)  विद्यालये शिक्षकाः छात्राश्च  आम्राः-अशोकः-बिल्वं-पिप्पलः इत्यादयः वृक्षाः आरोपयन्ति।

(३) विद्यालयस्य छात्राः प्रतिदिनं तान् वृक्षान् सिञ्चन्ति

(४) अस्माकं विद्यालये प्रति-वर्षं  वनमहोत्सवस्य आयोजनं भवति।

खण्डः - ग  (अनुप्रयुक्तं  व्याकरणम्)

 प्रश्नः - 6. अधोलिखितेषु रेखांकितपदेषु सन्धिं/विच्छेदं कुरुत -

(क) गावः मातृभूमिः +च सदा पूज्या ।

(ख) अनुक्तम् + अपि अवगच्छति धीमान् पुरुषः।

(ग)  शरीरायासजननं कर्म व्यायामः कथ्यते।

 उत्तरम् -

(क) गावः मातृभूमिश्च  सदा पूज्या ।

(ख) अनुक्तमपि अवगच्छति धीमान् पुरुषः।

(ग)  शरीर + आयासजननं कर्म व्यायामः कथ्यते।

प्रश्नः - 7.  अधोलिखितेषु रेखांकितपदेषु समासं /विग्रहं कृत्वा लिखत -

(क) मुनिना पीताम्बरं धृतम्।

(ख) तपोवनस्य वासिनः देवीति नाम्ना आह्वयन्ति।

(ग) हरिताः तरवः एव प्रकृतेः प्राणाः।

 उत्तरम् -

(क)     मुनिना पीताम् अम्बरम् धृतम्।

(ख)     तपोवनवासिनः देवीति नाम्ना आह्वयन्ति।

(ग)     हरिततरूणाम् एव प्रकृतेः प्राणाः।

प्रश्नः - 8.  अधोलिखितेषु रेखांकितपदेषु प्रकृति-प्रत्ययौ संयोज्य लिखत - 

(क)     सुशीला सुन्दरी बाल +टाप अस्ति।

(ख)     श्रीमद्भगवद्गीता अवश्यं पठ् + तव्यत्।

(ग)     आयु + मुतुप् भव पुत्रि! 

 उत्तरम् -

(क)     सुशीला सुन्दरी बाला अस्ति।

(ख)     श्रीमद्भगवद्गीता अवश्यं पठितव्यम्

(ग)     आयुष्मती   भव पुत्रि! 

प्रश्नः - 9.  अधोलिखितेषु वाक्येषु मञ्जूषायां प्रदत्तैः अव्ययपदैः वाक्यानि पूरयत - 

मञ्जूषा     -     विना, सहसा, कुत्र 

प्रश्नोत्तर -

(क)   व्यायामिन सहसा जरा न समधिरोहति।

(ख)   ज्ञानं विना नैव मुक्तिः।

(ग)   पं. गोविन्द-बल्लभ-पन्त - वर्यस्य जन्मः कुत्र अभूत।

प्रश्नः - 10.  अधोलिखित-वाक्यानां  वाच्य परिवर्तनं कुरुत - 

(क)  अहं प्रतिदिनं गृहस्वाध्यायं करोमि।

 उत्तरम् - मया प्रितिदिनं गृहस्वाध्यायं क्रियते

(ख) मया वाल्मीकि-रामायणं पठ्यते।

 उत्तरम् - अहं वाल्मीकि-रामायणं पठामि 

(ग) छात्रेण विद्यालयः गम्यते।

 उत्तरम् -  छात्र: विद्यालयः गच्छति

प्रश्नः - 11.  मञ्जूषायां वादनं दृष्वा संस्कृतेन समयं लिखत। राजेशः कदा किम् करोति - 

मञ्जूषा-     क -3.30 वादनम्, ख- 4.45 वादनम् ग- 8.15 वादनम्, घ- 10.00 वादनम्।

प्रश्नोत्तर -

(क)   राजेशः सार्द्ध त्रि- वादने  सङ्गणक- शिक्षणार्थं गच्छति।

(ख)   सः पदोन पञ्च- वादने  योगासनं करोति।

(ग)   सः सपाद अष्ट-वादने स्वाध्यायं करोति।

(घ)   राजेशः रात्रौ दश- वादने शयनं करोति।

प्रश्नः - 12. अधोलिखितवाक्ययोः शब्देषु संस्कृत-संख्यां लिखत-

प्रश्नोत्तर - 

(क)  त्रतवः (06) षड् भवन्ति।

(ख)  अहं (85) पञचाशीतिः रुप्यकैः पुस्तकं क्रीतवान्।

प्रश्नः - 13. रेखांकितपदानानि शुद्धानि कृत्वा पूर्णवाक्यं लिखत - 

(क) बालिकाः पठनार्थं पुस्तकालयं गच्छति

 उत्तरम् -  बालिकाः पठनार्थं पुस्तकालयं गच्छन्ति ।

(ख)  सः बालकाः सन्ति।

 उत्तरम् -  ते  बालकाः सन्ति।

(ग) श्वः कार्यक्रमः आसीत्

 उत्तरम् -  श्वः कार्यक्रमः भविष्यति।

खण्डः - घ (पठित-अवबोधनम्)

प्रश्नः - 14.  अधोलिखितं गद्यांशं पठित्वा तत् आधारितान् प्रश्नान् उत्तरत - 

विचित्रा दैवगतिः। तस्यामेव रात्रौ गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः। तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः। चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृणाच्च, परं विचित्रमघटत। चौरः एव उच्चैः क्रोशितुमारभत- "चौरोऽयं चौऽयम् इति।

(क)  एकपदने उत्तरत - 

(अ) चौरः कुत्र प्रविष्टः ?

     उत्तरम् -  गृहाभ्यन्तरम्।

(ख) पूर्णवाक्येन उत्तरत - 

(अ) चौरस्य पादध्वनिः कः प्रबुद्धः?

 उत्तरम् -  चौरस्य पादध्वनिः अतिथिः प्रबुद्धः।

(ब) चौरः उच्चैः किं क्रोशितुमारभत ?

 उत्तरम् -  चौरः उच्चैः चौरोऽयं चौरोऽयं इति क्रोशितुमारभत।

(ग) निर्देशानुसारम् उत्तरत -

 (अ)  निहितामेकाम् इत्यत्र सन्धि-विच्छेदं करुत ?

     उत्तरम् -  निहिताम् + एकाम् ।

(ब) विचित्रा देव गति अत्र विशेषणपदं किम्।

     उत्तरम् -  विचित्रा ।

 प्रश्नः -15. श्लोकाधारितम् प्रश्नान् उत्तरत - 

अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।

अयोग्यः पुरुषः नास्ति, योजकस्तत्र दुर्लभः।।

(क) एकपदने उत्तरत -

(अ) अक्षरं किं नास्ति ?

उत्तरम् -  अमन्त्रम्

(ख) पूर्णवाक्येन उत्तरत - 

(अ) अनौषधं किं नास्ति ? 

उत्तरम् -  अनौषधं मूलमं  नास्ति

(ब)  तत्र कः दुर्लभः ?

उत्तरम् -  तत्र योजक: दुर्लभः

(ग)  निर्देशानुसारम् उत्तरत - 

(अ) न औषधम् इत्यत्र समासं कुरुत - 

उत्तरम् -   अनौषधम्।

(ब) सुलभः इत्यस्य विलोमपदं किं प्रयुक्तम् ?

उत्तरम् -  दुर्लभः ।

प्रश्नः - 16.  अधोलिखितं नाट्यांश पठित्वा प्रश्नान् उत्तरत - 

रामः - एषः भवतो सौन्दयावलोकजनितेन कौतूहलेन पृच्छामि क्षत्रियकुल - पितामहयोः सूर्यचन्द्रमयोः को वा भवतोर्वंशस्य कर्ता ?

 लवः - भगवन् सहस्रदीधितिः।

रामः - कथमस्मत्समानाभिजनौ संवृतौ?

विदूषकः - किं द्वयोरप्येकमेव प्रतिवचनम्?

लवः - भ्रातरावावां सौदर्यौ।

रामः - समरुपः शरीरसन्निवेशः। वयस्तु न किंचिदन्तरम्।

लवः - आवां यमलौ।

(क) एकपदने उत्तरत - 

(अ) लवकुशयोः वंशस्य कर्ता कः ?

उत्तरम् -  भगवन् सहस्रदीधितिः (सूर्यः)।

(ख) पूर्णवाक्येन उत्तरत -

(अ) रामः लवकुशयोः कौतूहलेन किं पृच्छति ?

उत्तरम् -  रामः लवकुशयोः कौतूहलेन पृच्छति पितामहयोः सूर्यचन्द्रमयोः को वा भवतोर्वंशस्य कर्ता।

(ब) अत्र यमलौ कौ?

उत्तरम् -  अत्र यमलौ लवकुशौ।

(ग)  निर्देशानुसारम् उत्तरत - 

(अ)  सूर्यः अस्य पर्यायपदं नाट्यांशे किं प्रयुक्तम् ?

उत्तरम् -  सहस्रदीधितिः।

(ब) आवां यमलौ  अत्र आवाम् इति  सर्वनामपदं कस्मै प्रयुक्तम् ?

उत्तरम् -  लवकुशौ।

प्रश्नः - 17.  अधोलिखितयोः श्लोकयोः भावार्थं समुचितपदैः पूरयत - 

(क)  पिता यच्छति पुत्राय बाल्ये विद्याध्ययनं महत्।

पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।।

प्रश्नोत्तर - 

भावार्थः - पिता पुत्राय बाल्ये महत् विद्याध्ययनं यच्छति। अस्य पिता किं तपः तेपे इत्युक्ति त्कृतज्ञता। 

(ख) विचित्रे खलु संसारे नास्ति किंचित् निर्रथकम्।

अश्वश्चेद् धावने वीरः भारस्य वहने खरः।।

प्रश्नोत्तर - 

भावार्थः -  अस्मिन् विचित्र संसारे किंचित् व्यर्थं नास्ति। धावने यदि अश्वः वीर मन्यते, तथैव भारवहने खरः वीरः मन्यते।

प्रश्नः - 18. अधोलिखितस्य श्लोकस्य अन्वयं पूरयत - 

सम्पतौ च विपत्तौ च महतामेकरुपता।

उदये सविता रक्तो रक्तश्चास्तमये तथा।।

प्रश्नोत्तर - 

अन्वयः -  महतां सम्पतौ विपत्तौ च एकरुपता भवति। (यथा) सविता उदये यक्तः तथा अस्तमये च रक्तः भवति।

प्रश्नः - 19. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत -

(क)  प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।

(ख)  पुरा त्वया मह्यं व्याध्रत्रयं दत्तम्।

(ग)  सर्वे प्रकृति-मातरं प्रणमन्ति।

(घ)  सः भारवेदनया क्रदन्ति स्म।

उत्तरम् - 

(क)  कस्या: सन्निधौ वास्तविकं सुखं विद्यते।

(ख)  पुरा त्वया कस्मै व्याध्रत्रयं दत्तम्।

(ग)  सर्वे कं प्रणमन्ति।

(घ)  सः कया वेदनया क्रदन्ति स्म।

प्रश्नः - 20. अधोलिखितानि वाक्यानि उचित घटनाक्रमेण संयोजयत - 

(क) सर्व वृत्तम् अवगत्य सः तं निर्दोषम् अमन्यत्।

(ख) न्यायाधीशो  बंकिमचंद्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुत्वान्।

(ग) आरक्षिणं च दोषभाजनम् ।

(घ)  ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्।

(ङ) किन्तु प्रमाणाभावात् सः निर्णेतुं नाशक्नोत् ।

(च) अन्येद्युः तौ न्यायालये स्व-स्व पक्षं पुनः स्थापितवन्तौ।

उत्तरम् - 

(क) न्यायाधीशो  बंकिमचंद्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुत्वान्।

(ख) सर्व वृत्तम् अवगत्य सः तं निर्दोषम् अमन्यत्।

(ग) आरक्षिणं च दोषभाजनम् ।

(घ)  किन्तु प्रमाणाभावात् सः निर्णेतुं नाशक्नोत् ।

(ङ) ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्।

 (च) अन्येद्युः तौ न्यायालये स्व-स्व पक्षं पुनः स्थापितवन्तौ।

प्रश्नः- 21.  संस्कृतेन वाक्यप्रयोगं कुरुत - 

(क) सविता             (ख) मयूरः

उत्तरम् - 

(१) सूर्यस्य अपर-नाम सविता अस्ति 

(२) मयूर: नृत्यति

कक्षा 10 संस्कृत प्रश्न पत्र


एक टिप्पणी भेजें (0)
और नया पुराने